हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Balakanda Sarga 8 – बालकाण्ड अष्टमः सर्गः (८)


॥ सुमन्त्रवाक्यम् ॥

तस्य त्वेवं‍प्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः ॥ १ (1)॥

चिन्तयानस्य तस्येयं बुद्धिरासीन्महात्मनः ।
सुतार्थी वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ (2) ॥

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।
मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ ३ (3) ॥

ततोऽब्रवीदिदं तेजाः सुमन्त्रं मन्त्रिसत्तमम् ।
शीघ्रमानय मे सर्वान्गुरूंस्तान्सपुरोहितान् ॥ ४ (4) ॥

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
समानयत्स तान्सर्वान्गुरूंस्तान्वेदपारगान् ॥ ५ (5) ॥

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ॥ ६ (6) ॥

तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥ 7 ॥

मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८ (8) ॥

तदहं यष्टुमिच्छमि शास्त्रदृष्टेन कर्मणा ।
कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम् ॥ ९ (9) ॥

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥ १० (10) ॥

ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ११ (11)॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥ १२ (12) ॥

यस्य ते धर्मिकी बुद्धिरियं पुत्रार्थमागता ।
ततः प्रीतोऽभवद्राजा श्रुत्वैतद्द्विजभाषितम् ॥ १३ (1) ॥

अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः ।
सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥ १४ (13)॥

समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ।
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥ १५ (14) ॥

शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ।
शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥ १६ (15) ॥

नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ।
छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः ॥ १७ (16) ॥

विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति । [विहतस्य]
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥ १८ (1)॥

तथा विधानं क्रियतां समर्थाः करणेष्विह ।
तथेति चाब्रुवन्सर्वे मन्त्रिणः प्रत्यपूजयन् ॥ १९ (17) ॥

पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तं निशम्य ते ।
तथा द्विजास्ते धर्मज्ञा वर्थयन्तो नृपोत्तमम् ॥ २० (1)॥

अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ।
विसर्जयित्वा तान्विप्रान्सचिवानिदमब्रवीत् ॥ २१ (18)॥

ऋत्विग्भिरुपसन्दिष्टो यथावत्क्रतुराप्यताम् ।
इत्युक्त्वा नृपशार्दूलः सचिवान्समुपस्थितान् ॥ २२ (19) ॥

विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ।
ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयप्रियाः ॥ २३ (20) ॥

उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ।
तासां तेनातिकान्तेन वचनेन सुवर्चसाम् ।
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ २४ (21) ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥ ८ (8) ॥


www.sanatanadharm.com